|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.103. अध्यायः 103
Mahabharata - Adi Parva - Chapter Topics
प्रतीपेन गङ्गायाः स्नुषात्वेन परिग्रहः॥ 1 ॥ शान्तनूत्पत्तिः॥ 2 ॥ तस्य राज्येऽभिषेकः॥ 3 ॥ मृगयार्थं गतस्य शान्त नोर्गङ्गया संवादः॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-103-0x(634)(4552)
ततः प्रतीपो राजाऽऽसीत्सर्वभूतहितः सदा।
निषसाद समा बह्वीर्गङ्गाद्वारगतो जपन्॥ 1-103-1(4553)
तस्य रूपगुणोपेता गङ्गा स्त्रीरूपधारिणी।
उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः॥ 1-103-2(4554)
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी।
दक्षिणं शालसङ्काशमूरुं भेजे शुभानना॥ 1-103-3(4555)
प्रतीपस्तु महीपालस्तामुवाच यशस्विनीम्।
`वाक्यं वाक्यविदां श्रेष्ठो धर्मनिश्चयतत्त्ववित्।'
करोमि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम्॥ 1-103-4(4556)
स्त्र्युवाच। 1-103-5x(635)
त्वामहं कामये राजन्भजमानां भजस्व माम्।
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः॥ 1-103-5(4557)
प्रतीप उवाच। 1-103-6x(636)
नाहं परस्त्रियं कामाद्गच्छेदं वरवर्णिनि।
न चासवर्णां कल्याणि धर्म्यमेतद्धि मे व्रतम्॥ 1-103-6(4558)
`यः स्वदारान्परित्यज्य पारक्यां सेवते स्त्रियम्।
निरयान्नैव मुच्यते यावदाभूतसंप्लवम्॥' 1-103-7(4559)
स्त्र्युवाच। 1-103-8x(637)
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित्।
भजन्तीं भज मां राजन्दिव्यां कन्यां वरस्त्रियम्॥ 1-103-8(4560)
प्रतीप उवाच। 1-103-9x(638)
त्वया निवृत्तमेतत्तु यन्मां चोदयसि प्रियम्।
अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः॥ 1-103-9(4561)
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने।
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम्॥ 1-103-10(4562)
सव्योरुः कामिनीभोग्यस्त्वया स च विवर्जितः।
तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने॥ 1-103-11(4563)
स्नुषा मे भव सुश्रोणि पुत्रार्थं त्वां वृणोम्यहम्।
स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता॥ 1-103-12(4564)
स्त्र्युवाच। 1-103-13x(639)
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते।
त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलम्॥ 1-103-13(4565)
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम्।
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि॥ 1-103-14(4566)
कुलस्य ये वः प्रथितास्तत्साधुत्वमथोत्तमम्।
समयेनेह धर्मज्ञ आचरेयं च यद्विभो॥ 1-103-15(4567)
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित्।
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं रतिम्॥ 1-103-16(4568)
पुत्रैः पुण्यैः प्रियैश्चैव स्वर्गं प्राप्स्यति ते सुतः। 1-103-17(4569)
वैशम्पायन उवाच।
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत।
`अदृश्या राजसिंहस्य पश्यतः साऽभवत्तदा॥' 1-103-17x(640)
पुत्रजन्म प्रतीक्षन्वै स राजा तदधारयत्।
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः॥ 1-103-18(4570)
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन।
`प्रतीपस्य तु भार्यायां गर्भः श्रीमानवर्धत॥ 1-103-19(4571)
श्रिया परमया युक्तः शरच्छुक्ले यथा शशी।
ततस्तु दशमे मासि प्राजायत रविप्रभम्॥ 1-103-20(4572)
कुमारं देवगर्भाभं प्रतीपमहिषी तदा।'
तयोः समभवत्पुत्रो वृद्धयोः स महाभिषक्॥ 1-103-21(4573)
शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शान्तनुः।
`तस्य जातस्य कृत्यानि प्रतीपोऽकारयत्प्रभुः॥ 1-103-22(4574)
जातकर्मादि विप्रेण वेदोक्तैः कर्मभिस्तदा।
नामकर्म च विप्रास्तु चक्रुः परमसत्कृतम्॥ 1-103-23(4575)
शान्तनोरवनीपाल वेदोक्तैः कर्मभिस्तदा।
ततः संवर्धितो राजा शान्तनुर्लोकधार्मिकः॥ 1-103-24(4576)
स तु लेभे परां निष्ठां प्राप्य धर्मभृतां वरः।
धनुर्वेदे च वेदे च गतिं स परमा गतः॥ 1-103-25(4577)
यौवनं चापि संप्राप्तः कुमारो वदतां वरः।'
संस्मरंश्चाक्षयाँल्लोकान्विजातान्स्वेन कर्मणा॥ 1-103-26(4578)
पुण्यकर्मकृदेवासीच्छान्तनुः कुरुसत्तमः।
प्रतीपः शान्तनुं पुत्रं यौवनस्थं ततोऽन्वशात्॥ 1-103-27(4579)
पुरा स्त्री मां समभ्यागाच्छान्तनो भूतये तव।
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी॥ 1-103-28(4580)
कामयानाऽभिरूपाढ्या दिव्यस्त्री पुत्रकाम्यया।
सा त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने॥ 1-103-29(4581)
यच्च कुर्यान्न तत्कर्म सा प्रष्टव्या त्वयाऽनघ।
सन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम्॥ 1-103-30(4582)
एवं संदिश्य तनयं प्रतीपः शान्तनुं तदा।
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह॥ 1-103-31(4583)
स राजा शान्तनुर्धीमान्देवराजसमद्युतिः।
`बभूव सर्वलोकस्य सत्यवागिति संमतः॥ 1-103-32(4584)
पीनस्कन्धो महाबाहुर्मत्तवारणविक्रमः।
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः॥ 1-103-33(4585)
अमात्यलक्षणोपेतः क्षत्रधर्मविशेषवित्।
वशे चक्रे महीमेको विजित्य वसुधाधिपान्॥ 1-103-34(4586)
वेदानागमयत्कृत्स्नान्राजधर्मांश्च सर्वशः।
ईजे च बहुभिः सत्रैः क्रतुभिर्भूरिदक्षिणैः॥ 1-103-35(4587)
तर्पयामास विप्रांश्च वेदाध्ययनकोविदान्।
रत्नैरुच्चावचैर्गोभिर्ग्रामैरश्वैर्धनैरपि॥ 1-103-36(4588)
वयोरूपेण संपन्नः पौरुषेण बलेन च।
ऐश्वर्येण प्रतापेन विक्रमेण धनेन च॥ 1-103-37(4589)
वर्तमानश्च सत्येन सर्वधर्मविशारदः।
तं महीपं महीपाला राजराजमकुर्वत॥ 1-103-38(4590)
वीतशोकभयाबाधाः सुखस्वप्नप्रबोधाः।
श्रिया भरतशार्दूल समपद्यन्त भूमिपाः॥ 1-103-39(4591)
नियमैः सर्ववर्णानां ब्रह्मोत्तरमवर्तत।
ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः॥ 1-103-40(4592)
ब्रह्मक्षत्रानुकूलांश्च शूद्राः पर्यचरन्विशः।
एवं पशुवराहाणां तथैव मृगपक्षिणाम्॥ 1-103-41(4593)
शान्तनावथ राज्यस्थे नावर्तत वृथा वधः।
असुखानामनाथानां तिर्यग्योनिषु वर्तताम्॥ 1-103-42(4594)
स एव राजा सर्वेषां भूतानामभवत्पिता।
स हस्तिनाम्नि धर्मात्मा विहरन्कुरुनन्दनः॥ 1-103-43(4595)
तेजसा सूर्यकल्पोऽभूद्वायुना च समो बले।
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः॥ 1-103-44(4596)
बभूव राजा सुमतिः प्रजानां सत्यविक्रमः।
स वनेषु च रम्येषु शैलप्रस्रवणेषु च॥' 1-103-45(4597)
चचार मृगयाशीलः शान्तनुर्वनगोचरः।
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः॥ 1-103-46(4598)
गङ्गामनु चचारैकः सिद्धचारणसेविताम्।
स कदाचिन्महाराज ददर्श परमां स्त्रियम्॥ 1-103-47(4599)
जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम्।
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्॥ 1-103-48(4600)
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम्।
`स्नातगात्रां धौतवस्त्रां गङ्गातीररुहे वने॥ 1-103-49(4601)
प्रकीर्णकेशीं पाणिभ्यां संस्पृशन्तीं शिरोरुहान्।
रूपेण वयसा कान्त्या शरीरावयवैस्तथा॥ 1-103-50(4602)
हावभावविलासैश्च लोचनाञ्चलविक्रियैः।
श्रोणीभारेण मध्येन स्तनाभ्यामुरसा दृशा॥ 1-103-51(4603)
कवरीभरेण पादाभ्यामिङ्गितेन स्मितेन च।
कोकिलालापसंल्लापैर्न्यक्कुर्वन्तीं त्रिलोकगाम्॥ 1-103-52(4604)
वाणीं च गिरिजां लक्ष्मीं योषितोन्याः सुराङ्गनाः।
सा च शान्तनुमब्यागादलक्ष्मीमपकर्षती॥' 1-103-53(4605)
तां दृष्ट्वा हृष्टरोमाऽभूद्विस्मितो रूपसंपदा।
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः॥ 1-103-54(4606)
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्।
स्नेहादागतसौहार्दा नातृप्यत विलासिनी॥ 1-103-55(4607)
`गङ्गा कामेन राजानं प्रेक्षमाणा विलासिनी।
चञ्चूर्यताग्रतस्तस्य किन्नरीवाप्सरोपमा॥ 1-103-56(4608)
दृष्ट्वा प्रहृष्टरूपोऽभूद्दर्शनादेव शान्तनुः।
रूपेणातीत्य तिष्ठन्तीं सर्वा राजन्ययोषितः॥' 1-103-57(4609)
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा।
देवी वा दानवी वा त्वं गन्धर्वी चाथवाऽप्सराः॥ 1-103-58(4610)
यक्षी वा पन्नगी वाऽपि मानुषी वा सुमध्यमे।
`याऽसि काऽसि सुरप्रख्ये महिषी मे भवानघे॥ 1-103-59(4611)
त्वां गता हि मम प्रामा वसु यन्मेऽस्ति किंचन।'
याचे त्वां सुरगर्भाभे भार्या मे भव शोभने॥ ॥ 1-103-60(4612)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्र्यधिकशततमोऽध्यायः॥ 103 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-103-1 तत इति॥ 1-103-8 दिव्यां दिवि भवाम्॥ 1-103-9 निवृत्तं निरस्तम्॥ 1-103-10 आश्लिष्टा संगता॥ 1-103-15 समयेन नियमेन॥ 1-103-16 न मीमांसेत न विचारयेत्॥ 1-103-22 शान्तस्योपरतस्य वंशस्य संतानो विस्तार इति शान्ततनुः। तकारलोपेन शान्तनुरिति नाम॥ 1-103-26 संस्मरन्निति व्यवहितमपि ज्ञानबलेन जानातीत्यर्थः॥ 1-103-29 नानुयोक्तव्या न प्रष्टव्या॥ त्र्यधिकशततमोऽध्यायः॥ 103 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|